|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.81. अध्यायः 081
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन स्वप्ने शंकरात्पाशुपतास्त्रमुपलक्ष्य कृष्णेनसह पुनः शिबिरं प्रत्यागमनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-81-0x(4476)(47777)
ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम्।
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम्॥ 7-81-1(47778)
तं चोपहारं सुकृतं नैशं नैत्यकमात्मना।
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम्॥ 7-81-2(47779)
ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः।
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम्॥ 7-81-3(47780)
ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा।
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत॥ 7-81-4(47781)
स्वागतं वां नरश्रेष्ठौ विज्ञातं मनसेप्सितम्।
येन कामेन सम्प्राप्तौ भवद्ध्यां तं ददाम्यहम्॥ 7-81-5(47782)
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ।
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा॥ 7-81-6(47783)
येन देवारयः सर्वे मया युधि निपातिताः।
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम्॥ 7-81-7(47784)
तथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह।
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम्॥ 7-81-8(47785)
निर्दिष्टं यद्वृषाङ्केण पुण्यं सर्वार्थसाधकम्।
तौ जग्मतुरसम्भ्रान्तौ नरनारायणावृषी॥ 7-81-9(47786)
ततस्तौ तत्सरो गत्वा सूर्यमण्डलसन्निभम्।
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ॥ 7-81-10(47787)
द्वितीयं चापरं नागं सहस्रशिरसं वरम्।
वमन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम्॥ 7-81-11(47788)
ततः कृष्णश्च पार्थश्च संस्पृश्याम्भः कृताञ्जली।
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम्॥ 7-81-12(47789)
गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम्।
अप्रमेयप्रमाणं तौ गत्वा सर्वात्मना भवम्॥ 7-81-13(47790)
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ।
धनुर्बाणश्च शत्रुघ्नं तद्द्वन्द्वं समपद्यत॥ 7-81-14(47791)
तौ तज्जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्।
आजहूतुर्महात्मानौ ददतुश्च महात्मने॥ 7-81-15(47792)
ततः पाश्वाद्वॄषाङ्कस्य ब्रह्मचारी न्यवर्तत।
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः। 7-81-16(47793)
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः।
विचकर्षाथ विधिवत्सशरं धनुरुत्तमम्॥ 7-81-17(47794)
तस्य मौर्वी च मुष्टिं च स्थानं चालक्ष्य पाण्डवः।
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः॥ 7-81-18(47795)
स सरस्येव तं बाणं मुमोचातिबलः प्रभुः।
चिक्षेप च पुनर्वीरस्तस्मिन्सरसि तद्धनुः॥ 7-81-19(47796)
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा।
वरमारण्यके दत्तं दर्शनं शङ्करस्य च।
मनसा चिन्तयामास तन्मे सम्पद्यतां भव॥ 7-81-20(47797)
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः।
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम्॥ 7-81-21(47798)
ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात्।
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत॥ 7-81-22(47799)
`ततोऽर्जुनहृषीकैशौ पुनः पुनररिंदमौ'।
ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम्॥ 7-81-23(47800)
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ।
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ॥ 7-81-24(47801)
तथा भवेनानुमतौ महासुरनिघातिना।
इद्रावीष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ॥ ॥ 7-81-25(47802)
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि एकाशीतितमोऽध्यायः॥ 81 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-81-2 आत्मना सुकृतं सूपकल्पितम्॥ 5-81-14 द्वन्द्वं युगलम्॥ 5-81-16 नीललोहितः भगवतोऽपरा तनुः॥ 5-81-17 स्थानं स्थापनकम् 5-81-18 जग्राह मनसि कृतवान्॥ 5-81-81 एकाशीतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|